________________
(१८६)
न्यायसिन्धौ.
ज्ञानक्रमोवरणकर्मलयोपशान्ति
भेदक्रमादुपगतो न मनोऽणुभावात् ।।१२॥ एतद्वयन्वथ चतुर्विधमाहताना
मेकैकशो मतमवग्रहनामधेयम् ॥ ज्ञानं भवेत्प्रथममक्षघटादियोग्या
वस्थानसअनितदर्शनजन्यमत्र ॥१३॥ सन्मात्रगोचरमवग्रहपूर्ववर्ति
यदर्शनं तदिह नेव मतं नवीनेः किन्त्वक्षपातसमनन्तरमेव सत्त्व
व्याप्यप्रकारकमवग्रहज्ञानमिष्टम् ॥१४॥ यच्चेन्द्रियस्य विषयेण समं नयज्ञे
स्संयोजनं मतमवग्रहभेदरूपम् ॥ तव्यञ्जनं न मनसो नयनस्य चास्ति
योगस्तयोन्नहि मतो विषयेण यस्मात् ॥१५॥ यस्स्यादवग्रहधियाऽवगतो विशेष
ईहाख्यबोध इह तस्य विशेषधम्मैः । सम्भावनात्मकतया स च संशयात् स्याद्भिन्नस्त्ववग्रहभवान्नियमेन पश्चात् ॥१६॥ ईहाग्रहावगतवस्तुविनिर्णयात्मा
बोधस्त्ववाय इति जैनमतप्रसिद्धः ॥ तिष्ठन्स एव समयं ननु कश्चिदत्र स्याद्धारणा स्मृतिपटुनिजशक्तियोगात् ॥१७॥