________________
॥ मनःपर्यवज्ञाननिरूपणम् ।।
(१८५)
यञ्चिन्त्यते मनसि किञ्चिदपीह वस्तु येस्तन्मनो भवति तत्परिणामशालि ॥ द्रव्यात्मकं तदपि वेत्ति पुमान्विशिष्टो
हृत्पर्ययाख्यमतिभृद्विषयस्तथाऽस्य ॥७॥ साक्षात्स यद्यपि मनोगतभावमेव
जानाति नो विषयमस्य तथापि वेत्ति ॥ लिङ्गान्मनोगतविकल्पभरात्तु तत्त
दाकारतोऽनुमितितस्तमपि प्रमाणात् ॥८॥ स्याघ्यावहारिकमथापरसव्यपेक्ष
जीवान्निजावरणकम्मलयोपशान्तः ।। तस्येन्द्रिणेद्भवमनिन्द्रियजन्यमेवं
दैविध्यमत्र कथितं जिनतन्त्रविज्ञैः ॥९॥ तत्रेन्द्रियाण्यभिमतानि नयेऽत्र पश्च
ज्ञानं ततो भवति सहिषयावभासि ॥ ज्ञानं मनोद्भवमनिन्द्रियजन्यमत्र
यस्मादनिन्द्रियतया मन इष्यते ज्ञैः ॥१०१०॥ न प्राप्यकार्यभिमतं नयनं मनश्चा
धिष्ठानभिन्नगतवस्तुप्रकाशकत्वात् ॥ श्रोत्रादिकन्वभिमतन्ननु प्राप्यकार्यधिष्ठानदेशगतवस्तुप्रकाशकत्वात् ॥११॥ नात्राणुमानमपि जैनपदार्थविज्ञेरिष्टं मनो महदिदं प्रतिपादितन्तु ॥