SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ॥ शक्तिविचारः ।। (१८३) संसगता न यदि तस्य तदा त्वयेष्टा रूपढयस्य च विशिष्टमतेरभावात् ॥ कस्माद् विशिष्टमतिरेव तदा ततो नो तद्योग्यताविगमतो यदि शक्तिसिद्धिः॥९९६॥ अन्योन्यसंश्रयघटाऽपि विलोक्यतेऽत्र योग्यत्वतो भवति धीरनया च तद्यत् ॥ भ्राम्स्यात्मबुद्धिजननाय च योग्यतापि सत्त्वे मणेरपि कथन्न भवेत्त्वयेष्टा ॥९९७।। बुद्धौ प्रमास्वमपि तत्र निवेश्यते चेत् सम्बन्धसत्त्वबलतस्तदपीह तर्हि ॥ किञ्चतदेव भवतो हृदयं विचिन्त्यान्योन्याश्रयः प्रथममेव प्रदर्शितोऽत्र ॥९९८॥ एतादृशस्य विरहस्य न युक्तमत्यन्ताभावता कथनमप्यविशेषतो वः ॥ भेदादितो भवति नो खलु रूढमेव योगेऽपि सम्भवति तद्वचनं बुधाग्य ॥९९९॥ तादात्म्यता परिणतिन्न कदापि यत्र यस्यास्स्यसो भवति तद्विगमः परन्तु ॥ अत्यन्ततापरिगतः प्रतिबन्धकस्य नेताहशोऽस्ति स तु दाहभवेऽपि काले॥१०००॥ उत्तेजकस्य विरहोऽपि मणौ निवेश्यः कूटस्वतो भवति नात्र गतिर्हितीया ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy