SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ (१८२) न्यायसिन्धौ. प्राचीनपद्धतिविलोपभयाद्यतस्तै स्ताभ्यां च तस्य नहि देशसमानतेष्टा ॥९९०।। ध्वंसोऽपि यत्र प्रतिबन्धकभावराशेः कार्योद्भवो विबुध तत्र जनप्रसिद्धः॥ चेन्नव्यतार्किकनयाश्रयणेन सोऽन्त्य-- न्ताभावतो ननु भवेत्प्रतिबन्धकानाम् ॥९९१॥ नित्यस्त्वया स तु मतो विभुरेकरूप स्सत्त्वे मणेरपि तथैव च तत्र देशे ॥ वहन्यादिहेतुसहितः किमु नैव दाह कार्ये करोति मणिशून्य इव प्रदेशे ॥९९२॥ मण्यादिसत्त्वबलतो यदि तत्र दाह सामर्थ्यमेव विहतन्ननु शक्तिसिद्धिः ॥ किञ्च स्वभावविगमेन विनाशिताऽपि स्यात्तस्य तेन न भवेत्स च नित्यरूपः ॥९९३॥ संसर्गतो भवति कार्यजनो समर्थों हेतुस्स्वयन्न तु तथा च भवेन्न तत्र ॥ दाहो मणौ सति यतो विरहस्य नैव संसर्ग इष्यत इति प्रलपन्ति योगाः ॥९९४॥ संसर्ग इष्ट इह नो व्यतिरिक्तरूपः किन्तु स्वरूपमिदमप्युभयस्वरूपम् ॥ नित्यत्वतो न मणिताविरहो विनष्टो नाधार एवमथ किन्न च तस्य सस्स्यात् ९९५
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy