________________
॥ शक्तिविचारः॥
(१८१)
यस्मान्न कश्चिदपि तस्य समाश्रये त्व
सम्बन्धपक्षत इहापि भवेद्विशेषः ॥ स्यात्वन्मतस्स नियतो ननु तर्हि वाच्य
स्तादात्म्यमेष उत वा व्यतिरिक्त एव ॥९८५ भेदो भवेच्च प्रतिबन्धकशन्यताऽऽद्ये
नो वै विरोधघटना प्रतियोगिनाऽस्य ॥ एवञ्च किं भवति सप्रतिबन्धकेपि देशे न दाहघटना बुध तेऽविशेषात् ॥९८६॥ अन्त्ये तु येन प्रतिबन्धकता भवेत् स संसर्ग एव नियतो ननु सन्निविष्टः ॥ तद्भेदतोऽपि प्रतिबन्धकशून्यतास्तु,
भिन्नाः कथं स्युरिह तेऽनुगतेन वाच्याः॥९८७॥ किश्चोभयादिप्रतियोगिकशन्यताऽपि
मण्यादिकस्य च भवेजनिका तथा च ॥ सत्वे मणेरपि न किं तव दाहभावोऽवच्छेदको निविशते यदि तत्र धर्मः ॥९८८॥ ध्वंसो भवेन्न जनको न च प्रागभावो
मण्यादिकस्य बुध तर्हि तवैव शास्त्रे ॥ यस्मात्तयोन्नहि मता प्रतियोगितायां संसर्गधर्मघटना फलशन्यतातः ॥९८९॥ एवञ्च सिद्ध इह ते प्रतिबन्धकात्यन्ताभाव एव जनकस्स तु नैव युक्तः॥