________________
( १८०)
न्यायसिन्धौ.
शक्तिं विना निपुणता प्रतिबन्धकेषु दाहोपघातफलिका न च काचिदेका ॥९७९॥ यद्यन्य एव ननु कोऽपि तवात्र मान्यो
नैपुण्यताश्रयतया बुध तर्हि वाच्यः ॥ किं कारणं स मणिमन्त्रमुखेषु येन
नान्यत्र नैव हि विशेष इहान्यभावात् ॥९८०॥ कूटत्वमत्र गुणरूपतया न तेष्व
भीष्टं यतस्स नियमेन च द्रव्यवृत्तिः ॥ किन्वन्यदेव मतिगोचरताविशेष
रूपं भवेन्न तु भवेत्प्रकृतोपयोगि ॥९८१।। हेतुत्वबोधजननाय यतस्त्वयैवा
वच्छेदकोऽप्यभिमतो मतिगोचरोऽत्र ॥ नैवान्तरेश्वरमतिं प्रकृतस्य तस्या
वच्छेदकस्य तु भविष्यति रूपसिद्धिः ।।९८२॥ दूरेऽस्तु बोधघटना ननु रूपमेव
नो यस्य किश्च प्रतिबन्धकशन्यताऽपि । संसर्गतो नियमिताऽभिमतोऽन्यथा वा
नान्यस्तु कल्प इह तेऽपि मतो बुधामय ॥९८३ सत्त्वे मणेरपि यतो विरहोऽस्य भिन्न
सम्बन्धतोऽस्ति न च दाहभवस्ततस्तु ॥ आद्यः परन्वभिमतो न च सोऽपि युक्तस्ससर्ग इष्ट इह नोऽनियतस्तु कश्चित् ॥९८४॥