________________
शक्तिविचारः ॥
(१७९)
भावात् पृथङ् नहि यतोऽस्ति प्रमाणसिद्धोऽभावो नृशृङ्गवदसो न च कारणं स्यात् ॥ आधार एव विरहो जिनसम्प्रदाये मण्यादिकस्य हुतभुग्गतशक्तिरूपः ॥ ९७४॥ किश्चाक्षपादमतदर्शित एव भिन्नोऽ
भावोस्त्वसौ नहि भवेजनकस्तु दाहे ॥ तत्त्वे मणौ सति न किं प्रतिबन्धकस्य
मन्त्रादिकस्य विरहादनसेन दाहः ॥९७५॥ यत्कारणं भवति तत्समजातिकस्य
सर्वस्य कार्यजननात् प्रथमन्न सत्त्वम् ॥ इष्टं यतो न भुवनत्रयवर्तिदण्ड
मात्रत्य कुम्भजननात् प्रथमं ह्यपेक्षा ॥९७६॥ मण्यादिकस्य विरहो निखिलोऽथ हेतु
स्त तुता नियमिताऽनुगतनेन केन । कूटत्वतोऽथ प्रतिबन्धकमात्रशन्य
वस्थेन चेत्क्वचिदपीह तदा न दाहः ॥९७७॥ सर्वस्य किचिदपि कार्यमपेक्ष्य यस्मात्
प्रत्येकशोऽस्ति प्रतिबन्धकतैव लोके ॥ दाहोपघातनिपुणप्रतिबन्धकानां
राहित्यकूटमिह चेज्जनकन्तदा तु ॥९७८॥ भजयन्तरेण भवताऽपि च शक्तिरिष्टा नैपुण्यमर्थबलतो हि न शक्तिभिन्नम् ॥