________________
(१७८)
न्यायसिन्धौ.
शक्तिस्सृणादिषु वयं प्रतिपादयामोऽ
खण्डां तु तां जनकतात्मतयैव तेषु ॥९६८॥ अन्योन्यसंश्रयघटा तत एव नो नो, मीमांसकस्य तु भवेदपि सोक्तनीत्या ॥ नैवानवस्थितिघटापि च हेतुतात्म
शक्तौ तु गौतमसुतैरुपगीयमाना ॥९६९॥ वहनित्वतो यदि तु कारणताऽनलस्य,
दाहं प्रति प्रतिभया ननु गौतमानाम् ॥ वनित्वमस्य सकलं प्रति निर्विशेषं, किन्तर्हि शान्तिरनलान्न पिपासितानाम्।।९७०॥ साधारणो भवतु वनिगता तु जातिः, किन्वन्धयादिमतितोऽवगता विशेषात् ॥ दाहं प्रतीत्य जनकत्वनिरूपकत्व
वत्त्वेन नो तडुपशान्तिमुखेऽपि कार्ये ॥९७१॥ इत्याक्षपादवचनं वचनीयमेव,
मण्यादिकेऽपि सति यन्न च वनितस्तत् ॥ दूरं प्रयाति वद कस्य लयेन दाहो,
ना जायते हुतभुजोऽविचलात्तदानीम्॥९७२॥ मण्याद्यभाव इह तु प्रतिबन्धकाभा
वत्त्वेन हेतुरत एव न चाग्निमात्रात् ॥ दाहो न वा भवति तद्गतशक्तिसिद्धिरित्येतदप्यनुचितं वचनञ्च तेषाम् ॥९७३॥