________________
॥क्तिविचारः ॥
(१७७)
वैजात्यकल्पनकथाऽपि न चोत्र वहनी, नो वा तृणारणिमणित्वमुखैश्च धम्मैः ।। शक्तिस्वरूपजनकत्वमुपेयतेऽव च्छेद्यं न जैमिनिनयादविशेषताऽपि ॥९६३॥ शक्तिग्रहोऽन्वयविलोकनसव्यपेक्षात्, सञ्जायते च जनके व्यतिरेकबोधात् ॥ ऊहाख्यबोध इति सोऽभिमतो जिनानां,
व्याप्तिग्रहात्मकतयाऽपि स एव सिद्धः ॥९६४॥ तव्यञ्जकास्तृणमणित्वमुखास्तु धर्मा,
नो व्याकेषु नियमोऽस्ति तवाप्यभेदात् ।। यद्व्यञ्जकत्वमिह लिङ्गतयाहतोऽस्ति,
नानाविधेषु च विशेषगुणेषु पुंसः ॥९१५॥ वैकल्पिकी भवति यत्र तु हेतुता वो, वेदप्रमाणविषयो व्यतिरेकतो न ॥ तत्रास्ति किञ्च जनकत्वमतिस्तथैव, किन्नान्वयैकमतितो ननु साऽपि लोके ॥९६६॥ एवं स्थिते दहनहेतुतया प्रसिद्धा,
ये वै तृणारणिमणिप्रमुखाः पदार्थाः॥ तेषां भवेजनकताऽन्वयमात्रबोधा दित्यादयोऽननुगुणा न जिनानुगानाम् ॥९६७॥ मीमांसकोपरि पतेदपि दोष एषोऽवच्छेयता नियमतो जनकत्व इष्टा ॥