________________
न्यायसिन्धौ.
नो जात्यखण्डनियताऽभिमतस्त्वयाऽप्यवच्छेद्यतानियम इत्यवधारयान्तः ॥९५७॥ हेतुत्वमत्र यदि शक्तिपदाभिलप्यं
नो तर्हि दुर्वचतया तदलीकमेव ॥ नैयत्यतो जनिमतां व्यवधानशून्य
पूर्वक्षणानुगतता नहि हेतुता ते ॥९५८॥ तत्त्वे न किं गगनमप्यनुमोदितं स्या
हेतुत्वतस्तव बुधाग्य घटादिकार्ये ॥ दण्डत्वदण्डपरिणामकुलालहेतु
वैशाखनन्दनमुखाः किमु हेतवो नो ॥९५९॥ सङ्केततोऽभिनवतो ऽभिनवाऽन्यथासि
त्वं स्वलक्षणबलादुपगम्य तेषाम् ॥ तदभिन्नतां जनकलक्षणसन्निविष्टा
स्वीकुर्वतोऽपि तव विज्ञ न दोषमुक्तिः ॥९६०॥ यस्माद विभाग इह तेऽभिमतो न हेतु
स्संयोगकार्यजनने खलु तादृशोऽपि ॥ नो तत्र पञ्चविधमस्ति तवान्यथासि
द्धत्वञ्च नव्यमपि कार्यमपेक्ष्य तत्तु ॥१६॥ यद्यन्न यं प्रति जनेष्विह सम्प्रसिद्धं
हेतुत्वतो जनकलक्षणगास्तु तेषाम ॥ भेदा मता यदि तदा निखिलज्ञभिन्नदुर्बोधता भवतु लक्षणगोऽत्र दोषः ॥९६२।।