________________
॥ शक्तिविचारः॥
(१७३)
एवं स्थिते यदि भवेदिह शक्तिरेवावच्छेदिका जनकताग्रहणात्तदाऽस्याः ॥ पूर्व ग्रहोऽभिमत एव सखण्डबोधोऽवच्छेदकावगमनन्न यदन्तरेण ॥९४१॥ शक्तिस्त्वतीन्द्रियतयाऽक्षभवावबोधग्राह्या भवेन्नहि परन्वनुमानवेद्या । सा चानुमा जनकतामतिमन्तरा नोऽन्योन्याश्रयः स्फुटमिहेति च गौतमोयाः॥९४२ शक्तिस्तथा भवति किं स्वत एव किंवा स्वाधारकारणबलादथ वाऽन्यहेतोः ॥ स्वस्मात्स्वजन्म नहि युज्यत एव नैकं
यत्कार्यकारणतयाभिमतं जनानाम् ।।९४३॥ आये न चेदभिमतो जनक विनैव
शक्तेर्भवस्तव तदा नियता न सा स्यात् । स्वाधारकारणगता स्वपरा द्वितीये
शक्तिर्मता यदि तदा वनवस्थितिवः ॥९४४॥ शक्तिं विनैव यदि शक्तिरुपेयतेऽस्मात् किन्नो भवेत्त्वदुपदार्शत एव दोषः ॥ नाधारदेशनियमो भवितान्तिमे ते
शक्यतोऽन्यजनकादुपपत्तिरस्याः ॥९४५॥ यहद् गुणादि समवायिषु वस्तु विद्वन् सञ्जायते न जनकव्यतिरिक्तभावे ॥