________________
॥शक्तिविचारः॥
(१७१)
vA
wovvwww
वैशेषिकस्य च मते परमाणुमात्र
पाके घटादिपिठरस्य यथैव नाशे ॥ जातेऽपि स्मृष्टिरपरा परमाणुमात्राचित्रा तथैव न च पुद्गलतोऽपि किं सा॥९३०॥ पाकप्रभेदघटना यदि तत्र तेषां
शक्तिप्रभेदभजना न च तत्र किन्नः ॥ शक्त्यैकजातिरपि पुद्गल एव भिन्नान्
भूम्यादिकान् सृजति नात्र कुतर्कबाधः ॥९३१॥ मीमांसको विहतशक्तिरबाध्यमानां
शक्तिं परैर्यदि न साधयितुं समर्थः ॥ किं तावता जिनमताखिलतत्वविज्ञाः
स्याहादशक्तिशरणा न च शक्तिमन्तः ॥९३२॥ वहौ स्थितेऽपि मणिसन्निधितो न दाहो
पज्जायते भवति तद्विगमे च दाहः ॥ सत्वेऽपि सूर्यमणिसन्निधितो मणेर्वा ... वहौ ततश्श्रुतिविदा ननु शक्तिरिष्टा ॥९३३।। नेयायिकैः पुनरिहानुभवापलाप
दोषाकुरैरधिककल्पनभीतिमद्भिः ॥ स्याद्वादमुद्रितपदार्थविवेकशून्यै
स्सा लाघवोहबलशालिभिरिष्यते नो ॥९३४॥ दाहे मणेस्तु प्रतिबन्धकता तथा तद्राहित्यमस्य जनकं इयमेव कल्प्यम ।