________________
( १७० )
न्यायसिन्धौ.
नो क्षायिकं भवति तेन समग्रता नो स्पात् परमार्थमवहिःकरणोद्भवत्वात् ॥ ९२४ ॥
ज्ञानं भवेद्भवगुणोद्भवमत्र रूपि द्रव्यार्थमावरणकर्मलयोपशान्तेः ॥ यत्तद्बुधैरवधिबोध इति प्रतीतं
न्तिर्विभङ्ग इति तस्य च कीर्त्यतेऽत्र ॥ ९२५ ॥
उत्पत्तिमात्रत इदं खलु नारकेषु देवेषु चेति भवहेतुतया प्रसिद्धम् ॥ सद्दर्शनात्मगुणतो भवतीह नृणां यस्माद गुणोद्भवमिदन्तु तथा तिरश्चाम ॥ ९२६ छायातमः क्षितिजलानलवायुचित्तद्रव्याणि पुलभवान्यथ रूपवन्ति ॥ क्रोधादिकर्मपटलञ्च तथाऽऽगमज्ञै
रिष्टं त्वनुद्भवरसाद्यणुबन्धजन्यम् ॥ ९२७ ॥ यन्न गौतमनये कठिनादिभिन्नस्पर्शोऽपि पाकवशतः पृथिवीविकारः ॥ भिन्नः परन्तु पृथिवीत्वसमानभावस्तन्न किं भवतु पुद्गल एकजातिः ॥ ९२८ ॥ स्पर्शान्त इष्ट इह यः खलु गौतमेन भूमौ स एव च जलाद्यणुपुद्गलेषु ॥ उद्भूतमेव सकलं न च तत्समुत्थे कार्येऽखिलेऽप्यभिमतं परतथिकानाम् ॥ ९२९ ॥