SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ न्यायसिन्धौ. नो चेन्नया इह प्रमामतितो विभिन्ना, दुतितोऽथ च कथन्न विवेचनीयाः ॥ ९०२॥ एवञ्च नान्धसमुदायवदस्य वस्त्वद्रष्टृत्वमज्ञजनसञ्जितमस्ति किञ्च ॥ नो योगपद्यत इहाघटनान्नयानां, मानापलापघटना जिनदेवतानाम् ॥९०३ || अस्त्येव कुम्भ इति दुर्नयवाग्विलासस्स्याच्छब्दयोजनबलात्स च मानशब्दः ॥ अस्तीति नीतिवचनं पुनरत्र विज्ञेर्भेदेन तद्विभजनं कृतमेव शब्दे ॥ ९०४ ॥ प्रत्यक्षमेव गुरुसम्मतमत्र मानं, atrisaमानसहितं तदवैति मानम् ॥ वैशेषिकोऽपि च तदेव करोति चित्ते, साङ्ख्यस्तु शब्दसहितं तदुरीकरोति ॥ ९०५ ॥ तच्चोपमानसहितं ननु गौतमीयाः प्राभाकरास्तदपि कल्पनतो विमिश्रम् || भावास्त्वभावसहितं ब्रुवते तदेव, वेदान्ततत्त्वविदुषामपि मान्यमस्ति ॥ ९०६ ॥ सङ्क्षेपतो भवति तद्विविधं जिनानां, प्रत्यक्षमेकमपरञ्च परोक्षमिष्टम् ॥ यत्रानुमादिमतितोऽधिकधर्मभानं, स्पष्टं तदार्हतमतं प्रथमं प्रमाणम् ॥ ९०७ ॥ (१६६)
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy