________________
॥ जनमतेविरोधपरिहारः॥
..
.
.
.
...
~
~
~
~
~
-r
u
..
..
.
.
.
~
~
-
~
.
एकत्र धम्मिणि यतो निखिलस्य बन्धः
साक्षात्परम्परतया च मतो बुधानाम् ॥ युक्तस्ततो निखिलवस्तुमतो घटादेस्संसर्गिणोऽवितथबोध इमां विना नो ॥८९७॥ मत्यादयस्त्विह तु यद्यपि मानमध्ये प्रोक्तास्तथाऽपि गुणतः प्रमितित्वभाजः॥ यस्मादसर्व विषयाः प्रथिता मतेऽस्मिन्नक्षायिकत्वत इमे जिनतन्त्रविज्ञैः ॥८९८ भेदस्वभेदसहितः प्रथमन्निरुक्तस्संसर्ग आर्हतमते निखिलेषु यस्मात् ॥ तस्माद् घटादिमतयोऽपि प्रमा अभेदां
शालम्बनात् खलु भवन्ति प्रधानभावात्॥८९९॥ कुम्भोऽयमित्यवगतिस्तु घटत्वमेकं
कुम्भेऽवभासयतु मात्वमथापि तस्याः॥ सत्त्वादयोऽप्यवगतास्तदभिन्नतादास्म्यादेकताश्रयतयाऽऽश्रयतो यतोऽस्याम् ॥९००। भेदांशगोचरतया तु नयत्वमस्यां
सुस्पष्टमर्थविषयत्वलयाद् विभाव्यम् ॥ यत्सर्वथा विबुध मानविभिन्नरूपे
नो सम्मता सुनयता नयकोविदानाम् ॥९०१॥ मानं च यैन्नयसमृहतया निरुक्तं, तेषामपि प्रथमदर्शित एव भावः ।।