________________
। जैनमतेविरोधपरिहारः॥
(१९३)
एवं स्थिते भवंति बस्य प्रधानभावात
संस्थापना ननु यतो गुणतस्ततो ना ॥ एतावता भवति खण्डकताऽपि तस्य स्याहादिनामनुगुणैव प्रमाणभाजाम् ॥८८६॥ किं विस्मृतं च भवता जिनतन्त्रविज्ञैस्सन्दर्शितं हि शतशोऽत्र प्रकारभेदात् ॥ एकत्र धर्मिणि विरुद्धपदार्थसार्थ
संयोजनं न च निरूपकतोऽद्वितीयात् ॥८८७॥ यस्यैव यो भवति साधक थाहतानां
तस्यैव बाधकतयाऽभिमतस्स किन्तु ॥ स्थाादनीतिशबलां भजनां विना नो
क्वैकान्तवादिगणतोषकरोऽयमर्थः (1८८८॥ स्थाहादसिद्धिप्रवणे नयसिद्धिभाजी द्वेषो नयैकशरणे म च मुक्तिभाजाम ॥ स्याहादपक्षविमुखो नय एव नास्ति
येन प्रसक्तिरपि तस्य भवेच्च तेषाम् ॥८८९॥ वादे पराभवघटा सुलभा तु ते स्या
देकान्ततोऽत्र जय एव न चास्ति यस्मात् ॥ स्याहादिनां स तु पराभवमिश्रितोऽस्ति
स्वीकारयोग्य इति किन्न करोषि चित्ते ॥८९० तस्मात् प्रमाणमनवद्यमिह प्रमातरूपं प्रमाऽपि च भवेन्नयभेदतस्तत् ॥