________________
(१६२)
न्यायसिन्धौ.
सन्देहताघटकधर्मसमाजहेतुसामग्यकूटघटनार्थसमाजवाच्या ॥८८०॥ अव्याप्यवृत्तिमतिशून्यतयैव सार्द्ध
कोटिद्वयावगमको निपुणोऽन्यथा नो ।। सन्देहबुद्धिजनने न कथञ्चिदुक्ता
वव्याप्यवृत्तिमतिसन्निधितोऽस्ति सा तु ॥८८१॥ किञ्च प्रमाणमतिगा न विशेष्यतेके.
कत्रास्त्यनेकगप्रकारतया निरूप्या ॥ भिन्ना परन्तु तत एव न संशयत्व
मापाद्यमानमिह युज्यत आक्षपादैः ॥८८२|| ये चानवस्थितिमुखा मम दोषसङ्काः
स्याहादतत्त्वविषये नहि ते तु दोषाः ॥ एकान्ततत्त्वमनने तु कथन्न दोषा
जय्या मयैव प्रतिपक्षिजना हि दोषैः ॥८८३॥ सर्वे नया जिननयेऽभिमताः कथञ्चित्
तत्त्वप्रवेशबलतो न च किन्तथा च ॥ तत्स्थापका अपि भवन्ति त एव दोषा
एकान्ततैव परमेष्वपि तैनिवार्या ॥८८४॥ प्राधान्यगौणविधया द्विविधोऽत्र मार्गस्स्याहादिनां सकलवस्तुगतः प्रसिद्धः ॥ एकत्र चैकसमये नियतैकहेतोरेको द्वयं न पुरुषः प्रथितुं समथः ॥८८५॥