________________
|| जैनमतेविरोधपरिहारः ॥
(१६१)
नानन्तधर्मविषयत्वत एवमस्य सन्देहता भवितुमर्हति निर्णयस्य ॥ दोलायमानतनुरेव तु बोध इष्टो यत्संशयो बुधवरैर्न तु निर्णयात्मा ॥ ८७५ ॥ दोलायमानतनुता तु विरोधभाना
ज्ज्ञाने भवेन्न तु विभिन्नप्रकाशकत्वात् ॥ माने तु नास्ति नियतस्य च देशकालावच्छेदकस्य मननेन विरोधभानम् ||८७६ ॥ यस्मात् समुच्चयमतिर्भवताम्मतेऽपि नो संशयात्मकतया प्रथिताऽविरोधे ॥ श्रव्याप्यवृत्तिमतिरत्र विरोधभान
स्यैतावता बुध मता प्रतिवन्धिकाऽपि ॥ ८७७॥ शब्दो नियन्त्रिततया तत एव विद्वन् नो संशयात्मकमतिप्रगुणो मतस्ते ॥ किश्चात एव न च सत्प्रतिपक्षतोऽपीष्टस्संशयोऽनुमितिरूपतया बुधाय ॥ ८७८ ॥
चेद्रत्नकोशकृदनिश्चयरूपशाब्द
लिङ्गोत्थधीमननतत्पर आप्त इष्टः ॥ तर्ह्यस्तु संशयमतिर्ननु शब्दलिङ्गजन्या परन्न भजनाङ्कितशब्दतस्सा ||८८९ ॥
नो संशयत्वमिह तेन मतं हि कार्यावच्छेदकं भवति चार्थसमाजतस्तत् ॥