________________
(१६०)
न्यायसिन्धौ.
anwwwwwww
पूर्वापरादिसमयादिप्रवेशतः किं
नो मुक्तिरप्यनुमता मम बन्धमिश्रा ॥८६९॥ कावृतत्वविगमेऽवितथावभासा
ज्ज्ञानं भ्रमात्मकमिहाभिमतं यदेव ॥ कावृतत्त्वविगमेऽवितथावभासा
ज्ज्ञानं प्रमात्मकमथाभिमतन्तदेव ।।८७०॥ कैवल्यजन्मसमयात् प्रथमं जिनोऽपि ॥
भ्रान्तो मयाऽभ्युपगतोऽखिलतत्ववेत्ता ॥ तीर्थङ्करस्स तु यदा प्रमया तदानी
मालिडिन्तो न च किमत्र यथार्थवक्ता ॥८७१॥ देशेन देशदलनं ननु सम्मतं नोऽ
नेकान्तवादघटनाविरहित्वकाले ॥ स्याहादतैव बुध सर्वनयेषु यत्र तत्रार्थतत्वमननार्थक एव यत्नः ॥८७२॥ रागादयोऽपि च विरुद्धगुणन्वितो नो
नो सम्मतास्तमनिरूपकधर्मतोऽत्र ॥ पूर्वोक्तदोषघटना मम येन किन्त्व
वच्छेदकादिभजनानुगताश्च ते तु ॥८७३॥ मानं ममाभिलपितं परिपूर्गवस्तु
प्रद्योतकं भवति निर्णयरूपमेव ।। यस्मादनन्तघटनाविषयैव बुद्धिरेकत्र धर्मिणि प्रमाभिमतार्थवत्वात् ॥८७४॥