________________
॥ जैनमतेविरोधपरिहारः॥
(१५९)
रागो न पुत्रकनकादिषु नश्वरेषु
योग्योऽविनश्वरनिजात्मसुखे प्रशस्ते ।। इत्येतदर्थमिह शून्यतयैव नेष्टं विश्वं किम न च माध्यमिकेन सख्यम् ॥८६४ इष्टो न किं बुध जिनैर्ऋजुसूत्रनामा विज्ञेन्नयः क्षणिकता न कथञ्चिदिष्टा ॥ सौत्रान्तिकोऽपि मम किन्न सुहद्भवेत्स
एकान्तवादकलुषावृत एव नो चेत् ॥६५॥ किं तार्किक त्वमिह तर्कपरायणोऽपि स्याहादमाश्रयसि चेन्नयसङ्घमिश्रम ॥ नो नः सुहृद् भवसि येन न चाश्रयामो
मुक्तिं तवाभिलषितां हितसिद्धिरूपाम् ।।८६६।। किन्नास्तिकोऽपि गुरुदोषकलङ्कितोऽपि
चार्वाकबाल इह चेदधमो नयेषु ॥ स्याहाददत्तहृदयो न सुहृद्यतो नो
किं व्यवहाराकिनयोऽपि मतो जिनानाम् ॥८३७ स्याहादवाद्यपि हि सर्वमनन्तधर्मा.
धारं वदन्नियतधर्मसमाश्रयेण ॥ स्पष्टीकरोति पृथगेव निरूपकस्या
वच्छेदकस्य भजनात इह स्वरूपम् ॥८६८॥ मुक्त्यात्मना परिणतोऽपि य एव जीवो बन्धात्मना परिणतोऽभवदेष पूर्वम् ॥