________________
न्यायसिन्धौ.
(१५८)
स्थैर्यं भविष्यति तदैव तव प्रसिद्ध बुद्धान्वयादविहतं न तु सर्वथैक्ये ८५८॥
मानैकदृष्टिरपि किन्न विरोधरक्षां कुर्वनषानुसरणेन विभज्य धर्मान् ॥ स्याद्वादमन्त्रशरणोऽर्हति विज्ञ वक्तुमेकत्र धर्मिणि निरस्तसमस्तदोषान् ॥८५९ ॥
स्याद्वाद एष सकलागमतो विशिष्ट. सर्वे नया इह यतोऽभिमता निविष्टाः ॥ तेषां न खण्डनमिहार्हततत्त्वविज्ञस्स्यान्मण्डनं परमसौ नयमेवनेन ॥ ८६ ॥ वेदान्तिकापिलमुखाः परवादिनोऽभ्ये एकान्ततत्वमनाविरता भवेयुः ॥ स्याद्वादिनां किमिति नो सुहृदस्तदा ते मोक्षानुसारिरणौ का विरोधचर्चा || ८६१ ॥
इष्टस्तु सङ्ग्रहनयो मम तेन युक्तो ब्रह्मत्वादिभिरपीह सखित्वमध्यम् ॥ किं पुनले न ममताविरतिर्जिनानां स्वात्मन्यनन्यसुख सिद्धिमुपागतानाम् ||८६२|| आत्मप्रदेशघटनावशतो न किन्नो
ज्ञामान्वयित्ववशतोऽथ च पुनलादेः ॥ चैतन्यमिष्टमत एव भवेच्च योगा
चारेण सख्यमपि विज्ञ कथचिदत्र ॥ ८६३ ॥