________________
॥जैनमतेविरोधपरिहारः ॥
(१५७)
~~~~~~~~~~~~~~
~~~~~~~~~~
~~~~~
~
~~~
~
~~
संयोगिपुद्गलबलादवगाहनस्य
वैशिष्टयतोऽपि परिमाणविशेष इष्टः । दुग्धं हि पारदविनिर्मितपात्रपीतं . ..
बान्तं मितन्वितरथाधिकमानमेव ८५३॥ एतेन योऽप्यवयवान्यजलादिवस्तुसंसर्गतोऽवयविनो न हि मानभेदः ॥ स्वारम्भकावयवयोगभवे तु तस्मिन्
नाशो नवीनजननात्प्रथमस्य युक्तः ॥८५४॥ व्यासज्यवृत्तिरिह वस्त्रघटादिभावो
नैकत्र तिष्ठति परन्तु समग्र एव ।। स्वारम्भके यत इति प्रथितो निरस्तो . मार्गोऽक्षपादसुतकल्पित एष कष्टः ॥८५५॥ दक्तं यदेव प्रथमन्ननु रूपमासीत्
पाकेन रक्ततरमत्र तदेव जातम् ।। इत्यादिसर्वजनसिद्धप्रतीतितो हि रूपादयोऽपि परिणामितयाऽभ्युपेयाः ॥८५६।। उच्छेद एव यदि रक्तगुणस्य पाकात्
पूर्वस्य तर्हि वद कोऽत्र भवेद् विशेषः ॥ रक्तस्तु रक्ततरतां समुपैति नान्य
च्छयामादिकं परमसौ बुध रक्तिमानम् ॥८५७ तस्मात्कथञ्चिदिह भिन्नमभिन्नमर्थ रूपादिकं यदि करिष्यसि. बोधनिष्ठम् ॥ . . .