SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ (१५६) न्यायसिन्धौ. ................................ ............ पूर्वापरैक्यविषयावगतेस्तु तत्र नो द्रव्यनाश इति चेत्प्रकृतेऽपि तुल्यम् ॥८४७ द्रव्यान्तरोपजननादथ वा तु पूर्व द्रव्येऽविनाशिनि भवेत्पृथगेव मानम् ॥ साजात्यदोषवलतो न पृथग्प्रतीतिः पूर्वस्य तेन न विनाशप्रकल्पनाऽपि ॥८४८॥ तेनेकदोघतरतन्तुवितानताना भ्यां यत्र वस्त्र जनिरंशुपयोगतोऽस्ति । नो खण्डतन्तुभवनं न च पूर्वतन्तु नाशोऽपि तत्र कणभक्षसुतैरुपेयम् ॥८४९॥ तन्त्वंशुयोगजनकादुभयत्र वस्त्रं सजायतां किमपि नात्र च दृषणं वः ॥ यस्मादविरोधनियमोपगमे न मूर्ती नां मूतयोरथ च मानमिहास्ति किश्चित्॥८५०॥ किञ्चावगाहनविशेषवशाच्च पूर्व मानं द्वितीयपरिमाणतयाविनाशे ॥ द्रव्यस्य किम्परिणतं न भवेत्ततश्च द्रव्यान्तरोपजननं न पृथकप्रकल्प्यम् ॥८५१॥ दृष्टोऽवगाहनविशेषबलाच लोष्ठः कार्पासकादित इहाल्पतनुगंरिष्ठः ॥ आरम्भकावयवगा तु बहुत्वसङ्ख्या तत्र स्थिताऽपि न विलक्षणमानहेतुः ।।८५२॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy