________________
॥ जैनमतेविरोधपरिहारः ॥
एकान्ततत्त्वघटना ननु यस्व पक्षे
भेडो विरुद्धबलतोऽभिनवस्तु तस्य । भेदस्सदैव परिपन्धिदलेन येषां
तेषां समग्रनययोगवतां क भौतिः ॥८१२॥ भेदे स्थिते तु निजधर्मिषु धर्मयोः स्याद्भिन्नाभितत्वबलतस्तु विरोधसिद्धिः।। तस्माच्च भेदघटना निजधर्मिषु स्या
दन्योन्यसंश्रयघटा कथमत्र न स्यात् ॥८४३॥ थाधारभेदमननाञ्च विनैव मानात्
तद्ग्राहकाद् यदि विरोधघटा प्रसिद्धा । मोनात्तदाऽनुभवतो न कथं विरुद्ध... . धर्माश्रयोऽस्त्विह कश्चियनन्यतावान् ८१४॥ एषैव युक्तिरिह बौद्धनिराक्रियायां
नैयायिकैरपि मता स्थिरपक्षहेतुः ॥.. नो चेद्विरोधहतिरेव भवेद्घटादौ
सामर्थ्यतढिरहयोः स्थिरताप्रथायाम् ॥८४५॥ किञ्चापरस्सगतशिष्यप्रदर्शितोऽस्य
दोषो महान् भवति तत्वत ऐक्यवादे ॥ यस्मात् स्थितेऽपि किमु धर्मिणि कालभेदा
देकत्र भिन्नपरिणामसमन्वयो नो ॥४६॥ द्रव्यस्य नाशजनितो यदि तस्य नाशो रूपस्य किन्नहि तथैव विनाश इष्टः॥