________________
। जैनमतेविरोधपरिहारः॥
AAAAAAAAAINAVANA
पक्षोऽन्तिमो यदि तदा ननु देशकाला.
वच्छेदकेन घटितोऽभिमतस्स ते स्यात् ॥ धर्मादयोऽप्यभिमता मम विज्ञ तत्रा
वच्छेदकांशविधयेति न दत्तदोषः ॥ ८३१ ॥ धर्मादिसङ्घटनमत्र न केवलन्नो
नैयायिकस्य च मतेऽनुमतं यतस्तत् ।। संयोग इष्ट इह तेन गुणत्वसत्त्वमेयत्वधर्ममुखतो न च देशवृत्तिः ॥ ८३२ ॥ संयोगतो भवति देशगतोऽथ वह्निस्स्याव्याप्यवृत्तिरपि यत्समवायतस्तः ॥ संसर्गभेदघटनाऽपि विरोधकोटी
नैयायिकैरनुमतैव विरोधसिद्धथै ।। ८३३ ॥ काले विशेषणतया ननु असतादे
रव्याप्यवृत्तिरपि वाच्यप्रमेयतादेः ॥ यद्व्याप्यवृत्तिरिह तार्किसम्मतोऽस्ति
तज्जैनतत्त्वसरणों न विरोधभङ्गः ॥ ८३४ ।। वैशेषिकस्य च मतेऽभिमताः पदार्थाः
सप्तैव तेष्वनुमताः प्रतियोगितायाः॥ ते स्वाश्रयान्नहि भवन्ति पृथक्त्ववन्त एकत्र धार्मिमणि तथाऽश्रयधर्मभावः ॥३५॥ श्रव्याप्यवृत्तिरिह किञ्च मतोऽपि भेदो न्याये शिरोमणिमुखर्बहुभिस्तु नव्यैः ॥