________________
(१५२)
न्यायसिन्को.
ते किं स्वपक्षदलना अपि नो भवेयु
खब्धो विपक्षगणतोषकरो गुणोऽपि ॥२५॥ स्याहाद एव तव किश्च न सर्वथा स्यात् स्याहादताश्रय इह स्वमतप्रकोपात् ॥ एकान्तवादघटनापि च पाक्षिकी किं
मान्या ततो न च यतो न नयाडिसेवा ८२६॥ वादे पराभवघटा सुलभा तथा ते
एकान्ततो हि जय एव न चास्ति विद्वन् ।। स्याहादिनः परपराभवमिश्रितस्स
स्वीकारयोग्य इति किन्न करोषि चित्ते ८२७ इत्थश्च वादिनिवहैरुपगीयमानो
दोषप्रपञ्च इह जैनमते न दोषः। एकान्ततत्त्वमननव्यतिरिक्तपक्षे
स्याहादिनां क्व नु भेवद्गुणदोषचर्चा ॥४२८॥ स्याहादतत्त्वमननश्रमपूर्विका नो
दोषांशमात्रघटनाऽपि समस्ति किश्च ॥ स्याहादतत्त्वमननाश्रमपूर्वकास्तु दोषाः प्रसिद्धिपदवीमपि नैव यान्ति ॥८२९॥ एकाश्रितत्वविरहः किमु वो विरोध
स्सामान्यतोऽस्ति किमु वा सविशेष एषः ॥ नैयायिकैन्न प्रथमो विरहेण साकमव्याप्यवृत्तिप्रतियोगिन इष्यते सः ॥८३०॥