________________
॥ जैनमतेविरोधापादनम् ॥
(१५१)
वस्वंशमात्रविषयोऽपि मतो नयस्ते
मानत्वयोग्यपि भवेदविरोदवादे ॥ तत्खण्डनं स्वमतखण्डनमेव तस्मान्नैयायिकादिमतखण्डनमप्ययुक्तम् ॥८२०॥ रागादिदोषरहितोऽपि च सर्वश्वा तीर्थङ्करो भवतु रागयुतो मते ते ॥ सिद्धोऽप्यसिद्ध इह बद्धजनोऽपि मुक्तो . दोषान्वितोऽपि तव किन्न च दोषमुक्तः ॥८॥
मानं तवाभिलषितं परिपूर्णवस्तु प्रद्योतकं तदपि संशयरूपमेव ।। यस्माविरुद्धघटनाविषयैव बुद्धि
रेकत्र धम्मिणि मतो बुध संशयास्या ।।८२२॥ ये चावनस्थितिमुखास्तव दोषसङ्घा
स्ते सर्वथा न खलु दोषतयैव मान्याः ॥ इत्थश्च वादिनिवहान् वद कैः प्रकारेवादे प्रजेष्यसि परोक्तिविभेददक्षः ॥२३॥ एकान्तवादभयतो न च सर्वथा ते दोषाः परोक्तमतखण्डन एव दक्षाः ।। तत्स्थापका अपि न किं भवितार एते साधु त्वयाऽभिनव एव प्रकार इष्टः ।।८२४॥ ये वा स्वपक्षमननोद्भवतत्परास्ते लिङ्गादयो गुणतया प्रतितन्त्रसिद्धाः ॥