________________
(१५०)
न्यायसिन्यौ.
शन्यत्वमप्रतिहत निखिलेषु सत्त्वा
बाध्यं वदन् कुरु गुरुं बुध बुद्धपुत्रम् ॥८१४॥ स्थैर्ये स्थितेऽपि च विरोधविलोपकाsनित्यत्वमस्य जगतो बुध बोद्धनोत्या ॥ स्वीकृत्य किन्न भवता व्यवहारलोपि सौत्रान्तिकेन सह सख्यमकारि नव्यम८१५ भावोऽप्यभाव इति तेऽभिमतो विरोधाभावावगाहिनयसूत्रणतत्परस्य । तत्त्वे सुखं न किमु दुःखविनाशरूपं स्वीकृत्य तार्किकमताऽभिमतास्तु मुक्तिमा८१६॥ भूतत्वतोऽप्यभिमतन्न च चेतनत्वं यत्सर्वथा तव विरुद्धमतो निबोध ।। चार्वाकवाललपितं हृदि बुद्धिशालिन्
कृत्वा गुरुं गुरुतया स्मर तत्त्वदृष्ट्या ॥८१७॥ स्याहादिनस्तव मते ननु मुक्तिदेवी
किं बन्धतां शिरसि नैव दधात्यनिष्टाम ॥ कस्तां बुधो विहतमोहनरेन्द्रदपस्सेवेत तत्वरसिको हितमात्रकामः ॥८१८॥ ज्ञानं तथा सकलवस्त्वगाहि मान्यं
नोसर्वथाऽभ्रमतयैव तवात्र विद्वन् । किन्तु भ्रमत्वमपि तत्र तथा च तेऽहन् भ्रान्तः कथं विशदयविह तत्त्वराशिम् ॥८१९॥