SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ (१४८) न्यायसिन्धौ. नाशोद्भवावपि तदात्मतयाऽक्षबोधे स्यातां न चैव विषयाविति तर्कपन्थाः ॥८०३॥ किश्च प्रधानमपि नैक्यविभुत्वयोगि तत्त्वे भवेद् विविधरूपसमन्वयेन ॥ पादप्रसारणमबाध्यकथश्चिदुक्त्या स्याने तदा यदि जिनागमतत्वनिष्ठा ॥८०४॥ उत्पद्यते ननु यदेव कटादिभावो हेम्नि स्थिते भवति कुण्डलभावनाशः ।। किन्नो तदेव विबुधैकपदार्थचिन्ता यामप्यभेद इह तत्प्रकृतेन युक्तः ॥८०५॥ पक्षोऽन्तिमो यदि मतस्तव तर्हि सोऽपि युक्त्या न सिद्धिमुपगच्छति बाध्यमानः ॥ हेतुर्मतस्तव यतो न च कार्यकाले स्वस्वस्वभावसहितोऽचलितस्वभावः ॥८०६॥ किञ्च घ्यं जनिमतां प्रथमं तव स्या द्धतोस्तदेव नियमेन यतोऽस्ति वृत्तिः ॥ नाशक्षणे स्वसमये च न हेतुसत्तास्वस्वस्वरूपनियताऽस्ति विभिन्निभावात् ८०७ इत्यादिदोषघटना कपिलानुगानां नो केवलं भवति किन्तु समानतन्त्रे ॥ पातञ्जलेऽपि च तथैव सुबुद्रिभाजां सष्टीभविष्यति किमत्र प्रयत्नतो नः ॥८०८॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy