SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ जैनमतेविरोधापादनम्।। (१४५) मोक्षोऽपि मानविषयस्समभीप्स्यते ई र्मानं विना न प्रकृतिमहदादयो वा ॥ आत्माऽथवाऽत्र विबुधैरुपगन्तुमिष्टा मानं पृथग्भवतु तत्वत एव तत्वम ॥७८७॥ सामान्यमेव भवतोऽभिमतञ्च शक्तं शक्यं विधेयमपि किन्न पृथक्च तत्त्वम् । तादात्म्यतो यदि विशेषत एव तस्य नो वा पृथकथनमस्ति तदाज्ञतैव ॥७९८॥ सामान्यमेव प्रथमं सकलानुगामि वाच्यं विशेषमननं तत एव यस्मात् ॥ तादात्म्यतो भवति लापवमत्र पक्षे सामान्यतोऽनुगमने सुलभोऽवबोधः ॥७८९॥ भालोचनात्मकधियो जनकानि यानि ज्ञानेन्द्रियाणि तव पञ्च मतानि तानि ॥ सामान्यतत्त्वमनने तु न भेदभाजि ज्ञानेन्द्रियत्वमखिलेषु यतस्समानम् ॥७९॥ कर्मेन्द्रियत्वमपि तत्त्वमथैकमेव कर्मेन्द्रियेषु न च भिन्नतयाऽभ्युपेयम् ॥ भूतत्वमेकमथ भूतगणेषु तत्त्वमित्यादि लाघवमवेहि समानभावे ॥७९॥ स्वत्प्रक्रिया हि निखिलैव निरङ्कुशाऽऽविभीवात्तिरोभवनतश्च प्रसिद्धिमेति ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy