SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ( १४४ ) व्यक्तं प्रधानजनितं महदाद्याभिन्नं कस्मात्त्वयैव पृथगत्र निरूपितं तत् ॥ ७८१ ॥ चेत्तवता तव मते यदि धर्ममात्रे धम्मी तदा तव मतः किमु धर्मभिन्नः ॥ धर्मत्वयोग्यपि च वा प्रथमे प्रधानाद् भिन्नन्न किञ्चिदपि तत्त्वमनिन्दितं स्यात् ।। ७८२ किं वा प्रधानमपि नैव भवेच्च तत्त्वं धर्म्मादभिन्नतनुतोपगताऽस्य यस्मात् || तादात्म्यमेव च तवोऽपि कथञ्चिदिष्टं यद्धर्म्मधर्म्मिघटनानिपुणं न चान्यत् ॥७८३ ॥ न्यायसिन्धौ. ज्ञानादयोऽपि किमु नैव मते तवान्यपक्षे भवन्तु बुध तत्त्वतया प्रसिद्धाः ॥ को वाऽपराध इह धर्मगणस्य येन द्वेषश्च तेषु कपिलेन प्रकाशितोऽभूत् ॥७८४॥ मोक्षोपयोगि यदि तत्त्वतया तवेष्टं तत्त्वं तदापि मतिरेव निरूपणीया || ग्राह्यं विना मतिनिरूपणमेव नो चेदिच्छादयोऽपि दिययास्समुपासनीयाः ॥७८५ ॥ बुद्धपात्मभेदमतिरेव हि मुक्तिहेतुबुद्धयात्मनोभवतु भेदमतावपेक्षा ॥ अन्यन्न किञ्चिदपि तज्जननेऽत्र साक्षाद्धेतुः किमर्थमथ तस्य निरूपणं च ॥ ७८६ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy