________________
॥ साकख्यमतरखण्डनम्।।
कूटस्थनित्यपुरुषस्य यतस्त्वयैवा किश्चित्करस्य गणना खलु तत्त्वमध्ये ॥ स्पष्टीकृता शपथमात्रत एव तस्मात्सत्त्वत्रिकस्य तव तत्त्वगणेऽनिवेशः ॥७७६॥ सत्त्वादिकं निखिलवस्त्वनुगन्तुकत्वा
दन्योन्यसंश्रयसमुद्भवरोधनाच्च ॥ तुल्यान्वयित्वविरहान्वयतश्च भेदे
प्येकं मतं यदि तदास्त्वविचारितन्तत् ॥७७७ अर्थक्रियाजनकता सुगतेन सत्ता नैयायिकैरभिमता परजातिरेषा ॥ उत्पत्त्यवस्थितिलयान्वयिता तु जैनेर्वेदान्तिनाऽप्यभिमता त्रिविधा विचित्रा. ७७८ तद्वत्त्वयाऽप्यनुगता निखिलेषु तत्वेब्वेका सदादिमतितोऽभ्युगन्तुमिष्टा ।। उक्तेषु तत्त्वनिकरेष्वनिवेशनेन तत्त्वान्तरं भवतु सा न च किम्मते ते ॥७७९॥ ज्ञानादयस्तव मता ननु बुद्धिधर्मा.
स्तेषां न तत्त्वत इहाभिमतं पृथक्त्वम् । तत्त्वान्तरत्वमत एव निरुक्ततत्त्वेष्वप्राप्तितो न च कथन्तव सम्मतच ॥७८०॥ तादात्म्यतो यदि मते तव धर्मितत्त्वे तेषां निवेश इति न व्यतिरेकिणस्ते ॥