________________
(१४२)
न्यायसिन्धौ.
तत्त्वान्तरे न जनकं किमु वा न तत्र कल्पस्तवाभिलषितः प्रथमस्तु युक्तः ।।७७०॥ यस्मात्सदेव भवतोऽभिमतोऽत्र भावः
स्वस्वस्वभावसमभावतयाऽन्यथा वा ॥ पुंसो विनाऽपरिणतो व्यवतिष्ठते नो
तत्त्वत्रयश्च जनकं समभावकार्ये ॥७७१॥ तत्त्वान्तराजननतो यदि तत्त्वता नो स्यात्तर्हि ते चरमपक्ष इहास्त्वविघ्नः ॥ तत्स्वीकृतो कथय किन्न महत्सु भूतेध्वस्तङ्गताऽभ्युपगता बुध तत्त्वता ते ॥७७२।। यत्सङ्घतो भवति कार्यमसौ यदि स्यात्
तत्सन्निविष्टजनकाजनितं तदा तु ॥ न स्यान्महागुणसमूहभवोऽसमूहात्
सत्त्वादिकान्न तु तथोपगमोऽप्यभीष्टः ॥७७३॥ सामाग्रघतो भवति कार्यजनिन चैक हेतोस्ततस्तव मते नयनादयोऽपि ॥ तत्त्वस्वभावममतं न पृथक्त्वतो वै गच्छेयुरित्यपि महाँस्त्वयि दोषदण्डः ॥७७४॥ अर्थक्रियाजनकतैव न तत्त्वताया
नयत्यतस्तव मता बुध येन तस्याः ॥ प्रत्येकशो विगमतस्त्रिषु तत्त्वताया राहित्यतो विभजनन्न भवेद्धि होनम् ७७५॥