________________
॥ सारख्यमतखण्टनम् ॥
यत्पञ्चविंशतिमितं भवतान्यदर्शि तत्त्वं न तत्त्वमिदमप्यविचारितं यत् ।। सत्त्वादिकं त्रितयमत्र प्रधानमिष्टं प्रत्यकेशः किमु मिथो घटनात्मकं वा ॥७६५।। आये प्रधानमपि नैकमनेकरूपं तत्त्वत्रयं भवतु किन्तु ततो द्वयं वै ॥ तत्वं त्वदुक्तगणनादधिकं प्रविष्टं न्यूनत्वनिग्रहभवं न च किं भयन्ते ॥७६६॥ अन्त्ये समष्टिपरिणामतयैव तेषां तत्त्वस्वभाव उरीक्रियते त्वया किम् ॥ प्रत्येकशोऽथ परमस्य न वै विवक्षा कार्याक्षमत्वत इह प्रथमो न युक्तः ॥७६७॥ यस्मात् पृथक्समुदयस्समुदायितो नो.
मान्योऽतिरिक्तकलसादिनिराकरिष्णोः ॥ एकान्तवादलयभीतिमता न शक्यं
वक्तुं कथञ्चिदतिरिक्तपदार्थजातम् ॥७६८॥ एवञ्च तद्यदि पृथङ्न च तत्स्वरूपं
संत्त्वादिकं समुदयात्मनि तत्त्वतेषाम् ॥ नो युज्यते भवतु वा खसुमाघलीक.
पुछे न किन्तव मता बुध तत्त्वताऽन्या ॥७६९॥ पक्षोऽन्तिमो यदि तवाभिमतस्तदाऽत्र वाच्यस्तया न जनक किमु कार्यमात्रे ॥