________________
(१४०)
न्यायसिन्धौ.
थाये पुनर्भवतु मुक्तिरनगलैव
पुंसस्सदैव हि तिरोभवनाच्च बुद्धेः ॥७५९।। अन्त्ये तु सा प्रथममस्ति नवेति तत्र पक्षोऽन्तिमो यदि तदा स्वमतप्रकोपः ॥ किं वा तथैव न घटदिपदार्थसार्थः पूर्व ह्यसन्नपि मतो जनिमान् बुधाग्य ॥७६०|| आये तिरोहिततयैव तु तस्य सत्त्वं
मुक्तिप्रसङ्गभयतो भवताऽनुमोद्यम् ॥ तत्रापि किं प्रकटमस्ति तिरोहितत्वं
किं वा न तत्प्रकटमित्यपि चोद्यमेव ॥७६|| नोत्पादवान्यदि मतस्तव बुद्धिनाशो व्योमादिवद् भवतु तर्हि स नित्यमेव ॥ तत्त्वे सदैव पुरुषस्य न बन्धलेशो,
मुक्तिः परन्तु गहिणीव समीपगा स्यात्॥७६२|| व्योमोत्पलादिवदसावथ वा ह्यसन् स्या
द्धत्वन्तरानुदयतो न तु सन्कदाचित् ॥ एवञ्च शाश्वतिकबुद्धिनियोगतोऽस्य बन्धस्सदैव पुरुषस्य भवेन्मते ते ॥७६३॥ इत्यादिदोषघटना स्वयमेव बुद्धौ
बुद्धयादिभावमधिकृत्य च तेऽप्रयत्नात् ।। पूर्वोक्तयुक्तिमननादनसूययाविभूता कुतर्कबलतो न विघट्टनीया ॥७६४||