________________
॥ साङ्ख्यमतखण्डनम् ॥
(१३९)
आधे तिरोभवनमेव तिरोहितं ते यत्सर्वदा भवतु तेन सदैव बन्धः बुद्धेः सदा स्फुरणतः पुरुषस्य यस्माद् बिम्बादिकल्पनघटा त्वनपायिनी ते ॥७५४॥ अन्त्येतिरोभवनमेव पुनस्त्वयाऽस्या वाच्यं विनाशघटनानुपगन्तृणाङ्ग ॥ तत्रानवस्थितिकृतान्तमुखप्रवेशो दुर्वार एव तव तत्त्वरसप्रहाणेः ॥७५५ ॥ उत्पद्यते तव मतेऽथ तथा विनाशो बुद्धेस्तिरोभवननामक इष्यते यः ॥ नोत्पादवानुत मतो यदि पूर्वकल्पस्तत्रानवस्थितिघटा त्वपरोदिता तत् ॥७५६॥
'प्राकटयमेव कपिलेन तवोक्तमावि
र्भावाख्यया जनितमत्र न चात्मलाभः ॥ तत्सर्वदा प्रकटमेव मतं त्वया चे
न्मुक्तिस्सदैव पुरुषस्य तदा मते ते ॥७५७ ॥ तत्सर्वदाऽप्रकटमेव मतं त्वया चेद्
बन्धस्सदैव पुरुषस्य तदा मते ते ॥ प्राकटथमस्य प्रकटं क्वचिदेव कासे ॥
चेत्सम्मतं तव तदा ननु तत्र वाच्यः ॥ ७५८ ॥
प्राकटगा प्रकटता तव सर्वदावि
र्भावात्मना परिणता क्वचिदेव वा स्यात् ॥