________________
(१३८)
न्यायसिन्धौ
व्यापि प्रधानमपि सर्वसमानमेव किङ्कारणं युगपदेव न ते विमुक्ताः ॥७४८॥ मालिन्यमस्य नितरां तव मुक्तिकाले छिन्नं ततोऽम्भसि शशीव न किम्प्रसन्ने ॥ तस्मिन् प्रधानममलं प्रतिबिम्बनादि बुद्धयादिकश्च विदधातु सुबन्धनाय ॥७४९॥ बुद्धिन चास्ति तत एव न बद्धयतेऽसौ
यस्मात्प्रधानमपि बुद्धिबलेन तस्मिन् ।। बिम्बादिकल्पनमुखेन करोति बन्ध
मित्यादि शून्यवचन कपिलानुगानाम७५० सत्कार्यमेव कपिलेन निरूपितं यन्नाशो न कस्यचिदपि तस्य मतेऽस्ति तत्त्वात्॥ बुद्धयादिकं न विलयं तत एव तस्मिन्
यातीत्यतो भवतु बन्धनमेव पुंसः ॥७५१॥ नाशस्तिरोभवननामक इष्यते चेत्
तत्सर्वदास्ति किमु वा क्वचिदेव काले ॥ आये सदैव विलयान्महतस्सदैव मुक्तिर्भवेत्पुरुषगा न तु भेदबोधात् ॥७५२॥ अन्त्ये स्वसज्जननमेव मते तवापि प्राप्त तथा सति घटायपि किं तथा नो ॥ पूर्व तिरोहिततया यदि तस्य सत्त्वं नित्यैव सा तव तदा किमुवाऽस्त्यनित्या ॥७५३