SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ साङ्ख्यमतखण्डनम् ।। (३७) बोधस्सदैव पुरुषस्य निजं स्वरूपं तं चान्यथा न प्रकृतिः कुरुते कदाचित् " भ्रान्तिर्न बिम्बप्रतिबिम्बनतोऽतिरिक्ता सानात्मनो भवितुमर्हति पूर्वनीत्या ॥ ७४३ ॥ बुद्धौ भवेदपि च सा न तया तु बद्धो ह्यात्मोपचारबलतोऽपि परेण वाच्यः ॥ स्यादन्यथा किमु परोऽपि तया न बद्धो मुक्तः पुमान्स इव सर्वगतोऽविशेषात् ॥७४४॥ सर्वस्य सर्वगतता तव सम्प्रदाये पुंसो मता युगपदेव ततोऽस्तु बन्धः ॥ मुक्तिश्च बुद्धिप्रतिबिम्बनताऽविशेषादन्यस्ततो न च यतोऽभिमतो विशेषः ॥७४५॥ स्वस्वामिभाववचनन्नहि युज्यते तेऽसङ्गित्वमस्य कपिलेन यतो निरुक्तम् ॥ तत्रापि किञ्च न नियामकमस्ति किञ्चित् कूटस्थता निखिल पुन्नियताऽविशिष्टा ॥७४६ ॥ दृष्टा मयेति पुरुषः प्रकृतेरुपेक्षा कारी तथोपरमति प्रकृतिस्तु दृष्टा ॥ इत्यादिकं मननमीश्वरकृष्णवाचो लब्धं न मुक्तिफललाभनिदान भूतम् ॥ ७४७ ॥ यस्मात्समानविषयाः पुरुषास्तु सर्वे सन्त्येव बुद्धिनिकरेषु समस्वभावाः ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy