________________
॥ सांख्यमतखण्डनम् ॥
(१३५)
देहार्थमेव शयनाद्युपभाग्यमिष्टं देहो न किन्तव मतस्त्रिगुणस्वरूपः तत्पुमानपि परस्त्रिगुणस्वरूपसिद्धयेत्ततो भवति हेत्वप्रसिद्धिरेवम् ॥७३२ ॥
त्रैगुण्ययोग्यपि यथा न तव प्रधानं कार्यम्मतं जनककोटयनवस्थयैवम् ॥ तस्यार्थमेव सकलं प्रकरोति वस्तु
नोकस्य चित्तदिति किन्न मतन्तवाभूत् ॥७३३॥ किञ्चाप्रयोजकमिदं व्यभिचारशङ्का
नाशोधतोऽस्ति न हि तर्क इह प्रगरभः ॥ पवन्धन्योरिव तदा न प्रवृत्तिबोधौ
संयोग कल्पनवशादुभयोस्तु युक्तौ || ७३४ || चैतन्यतापरिगतो पुरुषौ मिथोऽभिप्रायार्थबोधकुशलोवलमर्थसिद्धौ ॥ अन्यादृशेतु प्रकृते पुरुषप्रधाने
दृष्टान्तमात्रत उपेयगतिन्न यातः ॥७३५॥
कूटस्थतापरिगते पुरुषे न युक्तं
भोक्तृत्वमन्यसहकारिवशात्तथैव ॥
साक्षित्वमप्यविकृतस्य न लोकसिद्धदृष्टान्तमात्रबलतोऽस्य बुधैरुपेयम् ॥ ७३६||
साक्षित्वमस्य विभुताऽथ च चेतनत्वं कूटस्थता त्रिगुणादि मिथो विविक्तम्