SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ (१३४) न्यापसिन्यौ. एवं स्थिते तु पुरुषा बहवः किमर्थमिष्टास्त्वया प्रकृतिवत्किमु नैक एव ॥७२६॥ एकोऽप्युपाधिविगमात् कचिदेव मुक्तो दुःखादियोगविगमोएि तथा क्वचित्तु ॥ बिम्बादिकल्पनमपि प्रतिदेहमेव भिन्नं भविष्यति विभोः पुरुषस्य यस्मात् ७२७ किञ्च स्वतोऽस्य विषयेण न चास्ति सङ्गो बुद्ध्यादिकल्पनमतो भवता न्यगादि ॥ मुक्तौ तुबुद्धिविगमाजडतैव तस्य ह्यर्थप्रबोधविरहे न निजप्रकाशः ॥७२८॥ सङ्घातरूपमखिलञ्च परार्थमेव दृष्टं यतश्शयनभोजनचन्दनादि । तस्मात्प्रधानमहदादि तदात्मकं सदात्मानमन्यमनुमापयतीति तत्र ॥७२९॥ आत्मा परस्तव मतो विभुताविधाऽनेकात्मको भवतु तेन परस्ततोऽपि ॥ पूर्वप्रदर्शितदिशा स्वपरस्तथा च नेवानवस्थितिभयात्पुरुषप्रसिद्धिः ॥७३०॥ त्रैगुण्यमेव यदि हेतुतया मतन्ते तन्नात्मवृत्ति तत एव परो न तस्मात् ॥ आत्माऽपि तर्हि तव नैव परः प्रसिद्धयेत् ॥ प्रैगुण्यशन्य इह योऽभिमतस्ततः सः ॥७३१॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy