________________
॥ सङ्ख्यमतखण्टनम् ॥
(१३३)
वृत्तिक्रमोऽपि तव तत्वत एव नास्ति भिन्नो जिनोत्यवगतान् मतिधीक्रमाच्च ॥ बालोचनन्तव मते बहिरिन्द्रियाघज्
जैनैर्मतश्च तदवग्रहनामधेयम् ॥७२१॥ यन्मानसन्तव मतेऽर्थविशेषधर्म
संस्पर्शि निर्णषमतेः प्रथमं विवेकात् ॥ सम्भावनन्तदपि जैनमते प्रसिद्ध.
मोहाख्यकं परमसो बहिरिन्द्रियाच ॥७२२॥ या निर्णयात्मकमतिर्मनसा तवास्ति
या वास्त्यहंकृतिवशादभिमानरूपा ॥ बुटयुद्भवाध्यवसितिश्च मताऽथ या सा सर्वाऽप्यवायमतिभेदतया जिनेष्टा ॥२३॥ शक्त्यात्मना स्मृतिभवानुगुणाऽथ वृत्तिबुद्धौ तवास्त्यभिमता ननु याहतानाम ॥ सा धारणाऽऽवृत्तिलयक्रमतः परन्तु तेषां क्रमो जिनमतः करणकमान्नो ॥७२॥ पत्र योभवति भिन्नसमाश्रितत्व
मव्यापिता तदुभयोः प्रतिबिम्बनं स्यात् ॥ अन्योन्यमत्र न विभोः पुरुषस्य युक्तो
बुद्ध्या तु बिम्बप्रतिबिम्बनभावबन्धः ॥२५॥ कूटस्थनित्यपुरुषस्य कदाचिदस्ति मुक्तिन्न ते भवति सा प्रकृतेः परन्तु ।