________________
(१३२)
न्यायसिन्धौ.
मुक्तो सुखादि निजरूपमबाधमस्य स्वाभाविकस्य नहि तैरपि नाश इष्टः ॥७१४॥ बुद्धिस्सती तव मते न विनाशमेति
आत्यन्तिकं भवति किन्न कदाचिदस्याः॥ मुक्तावपि प्रथमवन्निजकार्ययोगः
स्वाभाविकस्सकल एव सुखादिभावः ॥७१५|| तस्माद् यथा तव मते महतां प्रवृत्तिमुक्तात्मनः प्रति सतामपि नो तथा मः॥ देहादियोगविगमात्पुरुषेषु सत्सु
मुक्तो स्वभावबलतोऽपि न दुखभौतिः ॥७१६।। किश्च स्वयाऽपि किमु नो जिनसम्प्रदायो
ऽभीष्टोऽत्र लिङ्गतनुकल्पनया प्रमातुः। यत्कार्मणं जिनमते प्रथितन्तदेव भङयन्तरेण कपिलेन प्रदर्शितं यत् ॥७१८॥ तबुद्ध्यहंकृतिमनो नियतं शरीरं तन्मात्रभूतघटितं दशभिस्तथाः ॥ लिङ्गम्मतन्तव जिनागमतस्तु सिद्धं
तद्पुद्गलास्मकमिति प्रविचारयान्तः ॥७१९॥ यञ्च त्रयात्मकतया प्रथितं प्रधानं तज्जैनतत्त्वसरणौ निखिखेषु सत्त्वम ॥ उत्पत्स्यवस्थितिलयेषु गुणत्रयस्यान्तर्भावनञ्च बुध केवलमत्र कार्यम ॥७२१