________________
॥ साङ्ख्यमतरवण्डनम् ॥
एतेन किञ्चिदिह किश्चिदपेक्ष्य सस्वरूपात्मना जननतस्सुखकारि तस्य । दुःखात्मना तु जननादथ दुःखकारिमोहात्मना जननतो ननु मोहकारि ॥७०९॥ एतन्निरस्तमथ वाऽत्र कथम्नु पक्षे
यो यस्य दुःखजनकोऽथ स एव तस्य । कालान्तरे भवतु मोहजनौ समर्थ
आनन्दहेतुरपि सैव कथञ्च भावः ॥७१०॥ आत्मा तु चेतनतया तव सम्मतो यः कर्ता स एव सुखदुःखफलोपभोक्ता ॥ अस्तु प्रधानमहदादि निरर्थकन्ते
कटस्थता किमिह सत्त्वविरोधिनी नो ॥७११॥ स्वाभाविकस्य विगमो न कदाचिदस्ति .
दुःखादिकं पुरुषगं यदि चेत्तदाऽस्य ॥ मुक्तावपि प्रकटनश्च भवेत् स्वभावात्
तस्मात् सुखादिगुणतो वियुताः पुमांसः॥७१२॥ एकाश्रितत्वमिह कर्तृतया सुखादेः प्रत्यक्षतः प्रथत एव न कर्तृताऽपि ॥ युक्ता तथाऽऽत्मनि सुखादिगुणैर्विहीने
इत्येतदप्यनुचितं कपिलानुगानाम् ॥७१३॥ दुःखादि तस्य ख कार्मणदेहयोगाज्जैनैर्मतं भवति तहिगमेऽस्य नाशः॥