________________
। साथमतखण्डनम्॥
एकान्ततः परमसौ तव युज्यते नो निष्पादनं भवति कारणकूटतो यत् ॥ सिद्धस्य नोऽन्यनिरपेक्षतया परन्तु
साध्यस्य पूर्वमसतस्तु कथञ्चिदेव ॥६९८।। या चासतो जनिनिराकरणेऽस्ति युक्ति
स्सा स्यात्परोपगतनीतिपथे त्वदुक्ता ॥ स्याहादतन्त्रविमुखे न तु सर्वविज्ञमानप्रथापरिगते सबलात्मकेऽपि ॥६९९॥ सत्त्वं सुखं भवति दुःखमयं रजोऽथ
मोहस्तमो गुण इति त्रितयात्मकं चेत् ॥ बाह्यं घटादि ननु तर्हि प्रधानसिद्धि
युक्ता तदात्मकतया तव नैतदेवम् ।।७००॥ सातानुभूतिविषयः सुखमिष्यते स्व
संवेदनात्मकतया तदपि प्रमातुः॥ ज्ञानात्मकं भवति तन्न घटादि बाह्य
दुःखन्तथा तदिव नो न च मोहरूपम् ॥७०१॥ बाह्य सुखात्मकमतो नयनादितोऽस्य
बुद्धौ तु बिम्बप्रतिबिम्बनभावतश्चेत् ॥ सातात्मिका परिणतिन तथा कथं स्याद्
दुःखात्मिकाऽपि च तदैव ततस्तथा सा ॥७०२॥ तात्कालिकं यदि रजस्तमसी व्यपेक्ष्य सत्त्वं विवृद्धमत एव सुखं न दुःखम ॥