SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ( १२८ ) न्यायसिन्धों तत्र श्रयं प्रथमदर्शितमन्यदित्थं बुद्धेरहंकृतिरसावपि पूर्ववत्स्यात् ||६९२|| घ्राणस्वगक्षिरसना श्रुतिसंज्ञकानि ज्ञानेन्द्रियाणि च भवन्ति ततस्तथैव ॥ कम्र्मेन्द्रियाणि वचनग्रहणादिकर्म कारीणि पञ्च कपिलानुमतानि तानि ॥ ६९३|| वाक्पाणिपादसहिते भवतश्च पायू पस्थे मनस्तदुभयात्मकमेवमस्मात् ॥ तन्मात्रसंज्ञकतया प्रथितानि पञ्च भूतानि षोडशगणस्समुदेत्यहन्त्वात् ॥६९४॥ भूतेभ्य एभ्य इतराणि भवन्ति पञ्च भूतानि तानि च महान्ति मतानि विज्ञैः ॥ आकाशवाय्वनलजीवनपार्थिवानि तत्त्वान्तरं भवति नो जनितञ्च तेभ्यः ॥ ६९५|| मुण्डी शिखी भवतु वास्तु गृही कपाली यो वेद कापिलमतप्रथितञ्च तत्त्वम् ॥ पूर्वप्रदर्शितमिदं गृहिणीव तस्य मुक्तिस्सदा भवति सन्निहिताऽप्रयत्नात् ६९६ इत्यादि कापिलमतं न विचाररम्यं प्राधान्यमेव प्रकृतौ नहि सिद्धिमेति ॥ सत्कार्यवादमवलम्ब्य भवेच्च तस्य सिद्धिर्गुणत्रयमयस्य न चान्यथाऽपि ॥ ६९६ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy