________________
(१२६)
न्यायसिन्धौ.
******..
नैवाविकारिणि निजस्य गुणस्य दृष्टो ह्रासः परं स तु विवृद्धिमुपैति भूयः ॥ ६८१ ॥
किञ्चिद्विलक्षणतयाऽभिमतञ्च भूतं वैगुण्यतो भवति यस्य चितां विनाशः ॥ भूतस्वभावघटनाव्यतिरिक्त एष
आत्मप्रयोगजनितो ननु तत्स्वभावः ॥६८२॥ व्याप्तिं विना न च प्रसङ्गप्रवृत्तिरस्ति व्याप्तिग्रहोऽभिमत एव प्रसङ्गकर्तुः ॥ तत्त्वेऽनुमानमपि किन्न भवेत्प्रमाणं किं वा नचागममतिः प्रमितिर्विविक्ता ॥ ६८३ ॥ नन्वेतदर्भकमतं भवतां विचित्रयुक्तिप्रथाविदलितं शतशोऽल्पमानम् ॥ किं कापिलं मतमपि प्रथितं निरस्तं कूटस्थनित्य इह येन भवेन्न चात्मा ॥ ६८४ ॥ कर्तृ प्रधानमिह सत्त्वरजस्तमोभिरेकं सदेव च गुणैस्त्रितयात्मकं यत् ॥ व्याप्य स्थितं त्रिभुवनं परिणामयोगिनित्यं क्रियारहितमज्ञमनन्यतन्त्रम् ॥ ६८५ ॥ ! तस्यैव सत्त्वगुणवृद्धिकृता त्ववस्था बुद्धिर्गुणत्रयमयी महदादिवाच्या ॥ आमोक्षमात्मनियता तत एव पुंसोऽभेदाद्भवो भ्रमकृतोऽपरिणामिनोऽपि ॥ ६८६ ॥