________________
॥ चार्वाकमतखण्डनम् ॥
(१२५)
अन्त्ये कथन्न बहवोऽभ्युपगम्यमाना
स्तत्तच्छरीरनियता मतिगोचरास्स्युः॥ ऐक्यानुभूतिरपि नैव विभिन्नरूपे
चैतन्ययोगिनि सुखादिधियस्तथो स्यात् ॥६७६ बेदेऽपि किश्च शिरसोऽन्यसमाश्रिता सा किन्नास्ति येन मरणं शिरसो वियोगात् ॥ प्राणोत्क्रमात्तव मते न च चेतनाया
युक्तः क्षयोऽपि खलु भूतसमाश्रितायाः॥६७७॥ प्राणत्वजातिरपरा न मते तवास्ति
यन्त्रादितस्तनुगतात्पवनाहिशेषः ॥ प्राणस्य सिद्धयतु कुतो यदि वा विशेषो
जातिं विनाऽप्यभिमतोऽत्र तदात्मसिद्धिः ६७८ आयुःक्षयात्प्रबलकर्मपराहतेश्च कश्चिन्मृतो भवति न त्वपरस्तमाने ॥ रोगे चिकित्सनविधौ च चिकित्सके च पथ्ये तथैव करणे परिचारकेऽपि ॥६७९॥ वायुः क्षयो न न च कर्म विरुद्धमस्ति
भूतात्परन्तव मते निरुजे शरीरे ॥ किं कारणं वद न येन तु चेतनत्वं दोषत्रयोपशमने मृतकेऽविकारे ॥६८०॥ नैव ज्वरादिकतमस्ति तदोष्णतादि युज्येत येन ननु तत्र विकारिभावः ॥