________________
(१२४)
न्यायसिन्धौ.
mononnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn
तं स्वीकरोषि यदि किन्न तदा स्वनीत्या
हेतुत्वमप्यनुमतं वचनान्तरेण ॥६७०॥ त्रित्वादिकं च समुदायिषु खण्डशश्चे
न्नो सत्तदा न समुदायगतं भवेत्तत् ॥ नो सर्वथा समुदितस्समुदायिभिन्नः स्याहादवायभिमतो बुध तत्त्वदृष्टया ॥६७१॥ नो सर्वथाऽवयवरूपतयैव जैनैः कुम्भादयोऽवयविनोऽभिमतास्तथात्वे ॥ अर्थक्रियामतिवचांसि विभेदतो न स्युवों मतेऽवयविनोऽवयवाद्यतोऽत्र ॥६७२॥ शक्त्यात्मना च महदायपि मानमासीत्
कुम्भात्मकाणुनिचयेषु मते जिनानाम ॥ नैवासतो हि शशशृङ्गवदेव जन्मा
भीष्टन्ततो भवति चेतनता न भूते ॥६७३॥ भिन्नन्न चास्त्यणुचयान्महदादि मानं
स्याहादवायभिमतञ्च कथञ्चिदेव ॥ तत्प्रक्रिया तव मते घटते न चैका
न्तोच्छेदभीतित इति प्रविचारयान्तः ॥१७॥ देहे तु चेतनतयाऽभ्युपगम्यमाने व्यासज्यवृत्तिरिह चेतनताऽन्यथा वा ॥ आधे बहुस्वमिव नाणुचयात्मकेऽस्मिन् कस्याप्यणोर्विगमतो ननु सा तव स्यात् ६७५