SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ॥ चार्वाकमतखण्डनम् ॥ शैत्यं जले भवति कारणमन्तरा नो नैवोष्णताऽनलगता जनकं विनाऽत्र ॥ शक्तिस्स्वकार्यनियता जनकं विनाऽयस्कान्तादिगा जिनसुतैर्न च सम्मताऽस्ति ॥६६५ किञ्च स्वभाववचनन्न निरर्थकन्ते वाच्यन्तु किञ्चिदपि तस्य भवेदवश्यम् || भूतातिरिक्तमभिधेयमनिष्टमेव भूतात्मकं भवति तन्न विशेषकृत्ते ||६६६ ॥ यस्माद् घटाद्यपि मतन्तव भूतमध्ये स्तन्यादिपानविषया कृतिरस्य किन्नो || व्यावृत्तितो भवति यश्च विशेषभावो नो तात्विकस्स तु मिथोऽपि च सम्भवी यत्६६७ धूमार्थिनान्नियमतो ह्यनले प्रवृत्ति ( १२३) स्तृप्त्यर्थिनां तु ननु भोजनपान कादौ । नो कार्यकारणमतिं विरहय्य किञ्च स्यादन्यथा जगदिदं न कथन्निरीहम् ॥६६८|| दण्डादिकं यदि भवेन्न च कुम्भहेतुः किन्तद्विनाऽपि वद कुम्भभवो न ते स्यात् ॥ यो यस्य नो भवति हेतुरसौ विना तं दृष्टो यथा पटकटादि विनैव दण्डम् ॥६६९॥ यस्योद्भवो नियमतस्त्व वधेर्य तस्स्यात् पूर्वोऽवधिर्भवति कारणमेव सोऽयम् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy