________________
॥ चावीकमतखण्डनम् '
(१२१)
एतद्भवे नहि यतोऽभ्यसनादिरस्य
जन्मान्तरस्य स तु सिद्धयति कार्यलिङ्गात् ॥ कार्यकजातिनियमोऽसति बाधके नो .
स्या तुजातिनियमव्यतिरेकतोऽत्र ॥६५४॥ नो देहवृद्धिबलतो नियमेन प्रज्ञा
वृद्धिमहाजगरनागवरादिकेषु ॥ वृद्धिः क्वचित्तु सहकारिविशेषतोऽस्तूपादानता नहि तनो ननु चेतनायाः ॥६५५|| क्षेत्रादिहेतुवशतोऽपि विवृद्धिभाजो वृक्षादयः किमु भवन्ति न चापबीजैः ॥ देहे विकारजननान्नियमेन बोधे
नो वा विकार उपलभ्यत एव किश्च ।।६५६॥ देहेकदेशदलनेऽपि च सात्त्विकानां ज्ञाने विकारकणिकाऽपि न जायते यत् ॥ स्वात्मैकतानमनसां च विकारलेशो ज्ञाने न चास्ति विकृतेऽपि शरीरदेशे ॥६५७।। नान्यानुभूतविषयस्मृतिरन्यपुंसो
दृष्टो भवेत् स्मरणमेव न देहपक्षे ॥ बाल्ये विलोकितपदार्थततेजराया
मेकं न वृद्ध्यपचयाच यतश्शरीरम् ॥६५९।। सन्तानतोऽप्यनुभवस्मरणात्मबोधौ नो हेतुजन्यविधयाऽत्र प्रकल्पनीयौ ॥